श्री हनुमत्कवचम्

एकदा सुखमासीनं शङ्करं लोकशङ्करम्।
पप्रच्छ गिरिजाकान्तं कर्पूरधवलं शिवम्।।१।।

पार्वत्युवाच-
भगवन् देवदेवेश लोकनाथ जगत्प्रभो।
शोकाकुलानां लोकानां केन रक्षा भवेद्ध्रुवम्।।२।।

सङ्ग्रामे सङ्कटे घोरे भूतप्रेतादिके भये।
दुःखदावाग्निसन्तप्तचेतसां दुःखभागिनाम्।।३।।

श्रीशिव उवाच-
श‍ृणु देवि प्रवक्ष्यामि लोकानां हितकाम्यया।
विभीषणाय रामेण प्रेम्णा दत्तं च यत्पुरा।।४।।

कवचं कपिनाथस्य वायुपुत्रस्य धीमतः।
गुह्यं तत्ते प्रवक्ष्यामि विशेषाच्छृणु सुन्दरि।।५।।

उद्यदादित्यसङ्काशमुदारभुजविक्रमम्।
कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम्।।६।।

श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम्।
अभयं वरदं दोर्भ्यां कलये मारुतात्मजम्।।७।।

हनुमानञ्जनासूनुर्वायुपुत्रो महाबलः।
रामेष्टः फाल्गुनसखः पिङ्गाक्षोऽमितविक्रमः।।८।।

उदधिक्रमणश्चैव सीताशोकविनाशनः।
लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा।।९।।

एवं द्वादश नामानि कपीन्द्रस्य महात्मनः।
स्वापकाले प्रबोधे च यात्राकाले च यः पठेत्।।१०।।

तस्य सर्वभयं नास्ति रणे च विजयी भवेत्।
राजद्वारे गह्वरे च भयं नास्ति कदाचन।।११।।

उल्लङ्घ्य सिन्धोः सलिलं सलीलं
यः शोकवह्निं जनकात्म्यजायाः।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राजलिराञ्जनेयम्।।१२।।

ॐ नमो हनुमते सर्वग्रहान् भूतभविष्यद्वर्तमानान् समीपस्थान्
सर्वकालदुष्टबुद्धीनुच्चाटय परबलान् क्षोभय मम सर्वकार्याणि साधय साधय।
ॐ ह्रां ह्रौं हुं फट। घे घे घे ॐ शिवसिद्धम्।
ॐ ह्रां ॐ ह्रीं ॐ ह्रूं ॐ ह्रैं ॐ ह्रौं ॐ ह्रः­ स्वाहा।

परकृतयन्त्रमन्त्रतन्त्रपरापकारभूतप्रेतपिशाचदृष्टिसव
विघ्नदुर्जनचेष्टाकुविद्यासर्वोग्रभयानि निवारय निवारय बन्ध बन्ध,
लुण्ठ लुण्ठ विलुञ्च विलुञ्च किलि किलि किलि सर्वकुयन्त्राणि
दुष्टवाचं ॐ फट स्वाहा।

ॐ अस्य श्रीहनुमत्कवचस्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिः।
श्रीहनुमान् परमात्मा देवता। अनुष्टुप्छन्दः। मारुतात्मज इति बीजम्। अञ्जनासूनुरिति शक्तिः। लक्ष्मणप्राणदातेति कीलकम्। रामदूतायेत्यस्त्रम्। हनुमान् देवता इति कवचम्।पिङ्गाक्षोऽमितविक्रम इति मन्त्रः।
श्रीरामचन्द्रप्रेरणया रामचन्द्रप्रीत्यर्थं मम सकलकामनासिद्धयर्थं
जपे विनियोगः।

अथ अङ्गुलिन्यासः।
ॐ ह्रां अञ्जनासुताय अङ्गुष्ठाभ्यां नमः।
ॐ ह्रीं रुद्रमूर्तये तर्जनीभ्यां नमः।
ॐ ह्रूं रामदूताय मध्यमाभ्यां नमः।
ॐ ह्रैं वायुपुत्राय अनामिकाभ्यां नमः।
ॐ ह्रौं अग्निगर्भाय कनिष्ठिकाभ्यां नमः।
ॐ ह्रः ब्रह्मास्त्रनिवारणाय करतलकरपृष्ठाभ्यां नमः।।

अङ्गन्यासः।
ॐ ह्रां अञ्जनासुताय हृदयाय नमः।
ॐ ह्रीं रुद्रमूर्तये शिरसे स्वाहा।
ॐ ह्रूं रामदूताय शिखायै वषट्।
ॐ ह्रैं वायुपुत्राय कवचाय हुं।
ॐ ह्रौं अग्निगर्भाय नेत्रत्रयाय वौषट्।
ॐ ह्रः ब्रह्मास्त्रनिवारणाय अस्त्राय फट्।
भूर्भुवःसुवरोमिति दिग्बन्धः।।

अथ ध्यानम्।
ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पापपहं
देवेन्द्रप्रमुखं प्रशस्तयशसं देदीप्यमानं रुचा।
सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं
संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम्।।१।।

उद्यन्मार्ताण्डकोटिप्रकटरुचियुतं चारुवीरासनस्थं
मौञ्जीयज्ञोपवीताभरणरुचिशिखं शोभितं कुण्डलाङ्कम्।
भक्तानामिष्टदं तं प्रणतमुनिजनं वेदनादप्रमोदं
ध्यायेदेवं विधेमं प्लगकुलपतिं गोष्पदीभूतवार्धिम्।।२।।

वज्राङ्गं पिङ्गकेशाढ्यं स्वर्णकुण्डलमण्डितम्।
निगूढमुपसङ्गम्य पारावारपराक्रमम्।।३।।

स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम्।
कुण्डलद्वयसंशोभिमुखाम्भोजं हरिं भजे।।४।।

सव्यहस्ते गदायुक्तं वामहस्ते कमण्डलुम्।
उद्यद्दक्षिणदोर्दण्डं हनुमन्तं विचिन्तयेत्।।५।।

अथ मन्त्रः।
ॐ न्नमो हनुमते शोभिताननाय यशोऽलङ्कृताय अञ्जनीगर्भसम्भूताय
रामलक्ष्मणानन्दकाय कपिसैन्यप्रकाशनपर्वतोत्पाटनाय सुग्रीवसाह्यकरणपरोच्चाटनकुमारब्रह्मचर्यगम्भीरशब्दोदाय
ह्रीं सर्वदुष्टग्रहनिवारणाय स्वाहा।

ॐन्नमो हनुमते एहि एहि एहि
सर्वग्रहभूतानां शाकिनीडाकिनीनां विषमदुष्टानां
सर्वेषामाकर्षयाकर्षय। मर्दय मर्दय। छेदय छेदय। मर्त्यान् मारय मारय। शोषय शोषय। प्रज्वल प्रज्वल।भूतमण्डलपिशाचमण्डलनिरसनाय।
भूतज्वर-प्रेतज्वर-चातुर्थिकज्वर-ब्रह्मराक्षस-पिशाचछेदनक्रिया-
विष्णुज्वर-महेशज्वरान् छिन्धि छिन्धि। भिन्धि भिन्धि।
अक्षिशूले शिरोऽभ्यन्तरे ह्यक्षिशूले गुल्मशूले पित्तशूले ब्रह्मराक्षसकुलप्रबलनागकुलविषं निर्विषं कुरु झटितिझटिति।
ॐ ह्रीं फट् घे घे स्वाहा।

ॐ नमो हनुमते पवनपुत्र वैश्वानरमुख पापदृष्टिहनुमतेको
आज्ञाफुरे स्वाहा।

स्वगृहे द्वारे पट्टके तिष्ठ तिष्ठेति तत्र रोगभयं राजकुलभयं नास्ति,
तस्योच्चारणमात्रेण सर्वे ज्वरा नश्यन्ति।
ॐ ह्रां ह्रीं ह्रूं फट् घे घे स्वाहा।

श्रीरामचन्द्र उवाच-
हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः।
पातु प्रतीच्यां रक्षोघ्नः पातु सागरपारगः।।१।।

उदीच्यामूर्ध्वतः पातु केसरीप्रियनन्दनः।
अधस्तु विष्णुभक्तस्तु पातु मध्यं च पावनिः।।२।।

लङ्काविदाहकः पातु सर्वापद्भ्यो निरन्तरम्।
सुग्रीवसचिवः पातु मस्तकं वायुनन्दनः।।३।।

भालं पातु महावीरो भ्रुवोर्मध्ये निरन्तरम्।
नेत्रे छायापहारी च पातु नः प्लवगेश्वरः।।४।।

कपोले कर्णमूले च पातु श्रीरामकिङ्करः।
नासाग्रमञ्जनासूनुः पातु वक्त्रं हरीश्वरः।
वाचं रुद्रप्रियः पातु जिह्वां पिङ्गललोचनः।।५।।

पातु देवः फाल्गुनेष्टः चिबुकं दैत्यदर्पहा।
पातु कण्ठं च दैत्यारिः स्कन्धौ पातु सुरार्चितः।।६।।

भुजौ पातु महातेजाः करौ च चरणायुधः।
नखान् नखायुधः पातु कुक्षौ पातु कपीश्वरः।।७।।

वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः।
लङ्काविभञ्जनः पातु पृष्ठदेशे निरन्तरम्।।८।।

नाभिं च रामदूतस्तु कटिं पात्वनिलात्मजः।
गुह्यं पातु महाप्राज्ञो लिङ्गं पातु शिवप्रियः।।९।।

ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः।
जङ्घे पातु कपिश्रेष्ठो गुल्फौ पातु महाबल:।
अचलोद्धारकः पातु पादौ भास्करसन्निभः।।१०।।

अङ्गान्यमितसत्त्वाढ्यः पातु पादाङ्गुलींस्तथा।
सर्वाङ्गानि महाशूरः पातु रोमाणि चात्मवित्।।११।।

हनुमत्कवचं यस्तु पठेद्विद्वान् विचक्षणः।
स एव पुरुषश्रेष्ठो भुक्तिं मुक्तिं च विन्दति।।१२।।

त्रिकालमेककालं वा पठेन्मासत्रयं नरः।
सर्वान् रिपून् क्षणाज्जित्वा स पुमान् श्रियमाप्नुयात्।।१३।।

मध्यरात्रौ जले स्थित्वा सप्तवारं पठेद्यदि।
क्षयापस्मारकुष्ठादि तापत्रयनिवारणम्।।१४।।

अश्वत्थमूलेऽर्कवारे स्थित्वा पठति यः पुमान्।
अचलां श्रियमाप्नोति सङ्ग्रामे विजयं तथा।।१५।।

बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगताम्।
सुदार्ढ्यं वाक्स्फुरत्वं च हनुमत्स्मरणाद्भवेत्।।१६।।

मारणं वैरिणां सद्यः शरणं सर्वसम्पदाम्।
शोकस्य हरणे दक्षं वन्दे तं रणदारुणम्।।१७।।

लिखित्वा पूजयेद्यस्तु सर्वत्र विजयी भवेत्।
यः करे धारयेन्नित्यं स पुमान् श्रियमाप्नुयात्।।१८।।

स्थित्वा तु बन्धने यस्तु जपं कारयति द्विजैः।
तत्क्षणान्मुक्तिमाप्नोति निगडात्तु तथैव च।।१९।।

ईश्वर उवाच-
भान्विन्दोश्चरणारविन्दयुगलं कौपीनमौञ्जीधरं
काञ्चिश्रेणिधरं दुकूलवसनं यज्ञोपवीताजिनम्।
हस्ताभ्यां धृतपुस्तकं च विलसद्धारावलिं कुण्डलं
यश्चालं विशिखं प्रसन्नवदनं श्रीवायुपुत्रं भजे।।२०।।

यो वारान्निधिमल्पपल्बलमिवोल्लङ्घ्य प्रतापान्वितो
वैदेहीघनशोकतापहरणो वैकुण्ठभक्तप्रियः।
अक्षाद्यार्जितराक्षसेश्वरमहादोषहारी रणे
सोऽयं वानरपुङ्गवोऽवतु सदा योऽस्मान्समीरात्मजः।।२१।।

वज्राङ्गं पिङ्गनेत्रं कनकमयलसत्कुण्डलाक्रान्तगण्डं
दम्भोलिस्तम्भसारं प्रहरणसुवशीभूतरक्षोऽधिनाथम्।
उद्यल्लाङ्गूलसप्तप्रचलचलधरं भीममूर्तिं कपीन्द्रं
ध्यायेत्तं रामचन्द्रं भ्रमरदृढकरं सत्त्वसारं प्रसन्नम्।।२२।।

वज्राङ्गं पिङ्गनेत्रं कनकमयलसत्कुण्डलैः शोभनीयं
सर्वापीड्यादिनाथं करतलविधृतं पूर्णकुम्भं दृढं वा।
भक्तानामिष्टकारं विदधति च सदा सुप्रसन्नं हरांशं
त्रैलोक्यत्रातुकामं सकलभुवि गतं रामदूतं नमामि।।२३।।

वामे करे वैरिभिदं वहन्तं शैलं परं श‍ृङ्खलहारकण्ठम्।
दधानमाच्छाद्य सुपर्णवर्णं भजे ज्वलत्कुण्डलमाञ्जनेयम्।।२४।।

पद्मरागमणिकुण्डलत्विषा पाटलीकृतकपोलमण्डलम्।
दिव्यदेहकदलीवनान्तरे भावयामि पवमाननन्दनम्।।२५।।

यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम्।
वाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम्।।२६।।

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि।।२७।।

विवादे दिव्यकाले च द्यूते राजकुले रणे।
दशवारं पठेद्रात्रौ मिताहारो जितेन्द्रियः।।२८।।

विजयं लभते लोके मानवेषु नरेषु च।
भूते प्रेते महादुर्गेऽरण्ये सागरसम्प्लवे।।२९।।

सिंहव्याघ्रभये चोग्रे शरशस्त्रास्त्रपातने।
श‍ृङ्खलाबन्धने चैव कारागृहनियन्त्रणे।।३०।।

कोपे स्तम्भे वह्निचक्रे क्षेत्रे घोरे सुदारुणे।
शोके महारणे चैव ब्रह्मग्रहनिवारणम्।।३१।।

सर्वदा तु पठेन्नित्यं जयमाप्नोति निश्चितम्।
भूर्जे वा वसने रक्ते क्षौमे वा तालपत्रके।।३२।।

त्रिगन्धिना वा मष्या वा विलिख्य धारयेन्नरः।
पञ्चसप्तत्रिलोहैर्वा गोपितः सर्वतः शुभम्।।३३।।

करे कट्यां बाहुमूले कण्ठे शिरसि धारितम्।
सर्वान्कामानवाप्नोति सत्यं श्रीरामभाषितम्।।३४।।

अपराजित नमस्तेऽस्तु नमस्ते रामपूजित।
प्रस्थानं च करिष्यामि सिद्धिर्भवतु मे सदा।।३५।।

इत्युक्त्वा यो व्रजेद्ग्रामं देशं तीर्थान्तरं रणम्।
आगमिष्यति शीघ्रं स क्षेमरूपो गृहं पुनः।।३६।।

इति वदति विशेषाद्राघवे राक्षसेन्द्रः
प्रमुदितवरचित्तो रावणस्यानुजो हि।
रघुवरपदपद्मं वन्दयामास भूयः
कुलसहितकृतार्थः शर्मदं मन्यमानः।।३७।।

तं वेदशास्त्रपरिनिष्टितशुद्धबुद्धिं
शर्मप्रदं सुरमुनीन्द्रनुतं कपीन्द्रम्।
कृष्णत्वचं कनकपिङ्गजटाकलापं
व्यासं नमामि शिरसा तिलकं मुनीनाम्।।३८।।

य इदं प्रातरुत्थाय पठेत कवचं सदा।
आयुरारोग्यसन्तानैस्तस्य स्तव्यः स्तवो भवेत्।।३९।।

एवं गिरीन्द्रजे श्रीमद्धनुमत्कवचं शुभम्।
त्वया पृष्टं मया प्रीत्या विस्तराद्विनिवेदितम्।।४०।।

श्रीरामदास उवाच-
एवं शिवमुखाच्छ्रुत्वा पार्वती कवचं शुभम्।
हनूमतः सदा भक्त्या पपाठ तन्मनाः सदा।।४१।।

एवं शिष्य त्वयाऽप्यत्र यथा पृष्टं तथा मया।
हनुमत्कवचं चेदं तवाग्रे विनिवेदितम्।।४२।।

इदं पूर्वं पठित्वा तु रामस्य कवचं ततः।
पठनीयं नरैर्भक्त्या नैकमेव पठेत्कदा।।४३।।

हनुमत्कवचं चात्र श्रीरामकवचं विना।
ये पठन्ति नराश्चात्र पठनं तद्वृथा भवेत्।।४४।।

तस्मात्सर्वैः पठनीयं सर्वदा कवचद्वयम्।
रामस्य वायुपुत्रस्य सद्भक्तैश्च विशेषतः।।४५।।

।। इति श्रीशतकोटिरामचरितान्तर्गत श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे त्रयोदशसर्गातर्गतं श्रीहनुमत्कवचं सम्पूर्णम् ।।

श्रीहनुमते नमः



Once Lord Shankara, the Lord of the worlds, was seated comfortably. he asked the auspicious white camphor-loving Girija.

Parvati said: O Lord of the gods and goddesses, Lord of the worlds and Lord of the universe. Who can surely protect the worlds overwhelmed with sorrow?

In battle, in danger, in terrible fear of ghosts and ghouls. They share in suffering whose minds are burning with the fire of suffering.

Sri Shiva said: Listen O goddess I shall tell you for the welfare of the worlds And what Rama had given to Vibhishana with love in the past.

The shield of the wise son of the Wind lord of the monkeys I shall tell you that secret, O beautiful one, listen in particular.

He looked like the rising sun and had the prowess of generous arms Beautiful like a crore of Cupids and master of all sciences.

The joy of the heart of Sri Rama, the tree of the devotee’s kalpa. Fearlessness bestower of boons with both arms the son of the Wind in the Age of Kali.

The mighty Hanuman son of Anjana and son of the Windgod He is dear to Rama and a friend of Phalguna and has yellow eyes and immeasurable prowess.

Crossing the ocean and destroying the grief of Sita He gave life to Lakshmana and destroyed the pride of the ten-headed Ravana.

Thus twelve names of the great lord of monkeys. He who recites it at bedtime and at awakening and at the time of travelling.

He has no fear of all and will be victorious in battle. There is never fear at the gate of the king or in the cave.

Crossing the waters of the sea He who burns the fire of sorrow for the soul of Janaka. He took it and burnt Lanka with it I bow to him with folded hands, O Anjaneya.

O Hanuman, to all the planets, past, future and present, who are nearby Shake off the evil minds of all times, stir up the forces of others, accomplish all my works, accomplish them. Om Hram Hraum Hum Phat. Ghe Ghe Ghe Om Shivasiddham. OM HRAM OM HRIM OM HRUM OM HRAIM OM HRAUM OM HRAH SWAHA.

Like the sight of ghosts and devils created by others Vighnadurjanacheshtakuvidyasarvograbhayani nivaraya nivaraya bandha bandha, Lunt Lunt Vilunch Vilunch Kili Kili Kili all the evil machines Evil words ॐ Phat Svaha.

ॐ The sage of this Sri Hanuman Kavacha Stotra Mantra is Sri Ramachandra. Sri Hanuman is the Supreme Deity. Anuṣṭupchandaḥ. The seed is the son of the wind. The power of the son of Anjana. The key is Lakshmana Pranadate. The weapon for the messenger of Rama. Hanuman is the deity is the shield.Pingaksha is the mantra of immeasurable prowess. Inspired by Sri Ramachandra, for the pleasure of Ramachandra and for the fulfillment of all my wishes Application to chanting.

Then the finger position. ॐ hram anjanasutaya thumbs up. ॐ Hriṁ Rudramurtaye Namah with index fingers. ॐ hruun Ramadootaya middle fingers. ॐ hṛiṁ vāyuputrāya namaḥ. ॐ hṛuṁ agnigarbhaya namah on the lower arms. ॐ hrh brahmastra nivaranaaya palm hands and backs.

Anganyasaḥ. ॐ Hram Anjanasutaya Hridaya Namah. ॐ Hriṁ Rudramurtiye Shirase Svaha. ॐ hruun Ramadootaya shikhaayai vashaat. ॐ Hrain Vayuputraya Kavacaya Hum. ॐ hṛuṁ agnigarbhaya netratrayaya vauṣat. ॐ hrh brahmastranivaranaaya astraya phaat. Bhurbhuvahsuvarom is the directional bond.

Then the meditation. One should meditate on Him who shines like the child’s sun and destroys the sins of the gods and enemies He was the chief of the gods and had a praiseworthy reputation and a glowing taste. He was accompanied by all monkeys like Sugriva and loved the manifest truth His eyes were red with red and he was born of the wind and he was adorned with yellow clothes.

He was seated on a beautiful heroic seat with millions of obvious tastes in the rising martanda Maunji, sacrificial veil, ornaments, taste, peak, adorned with earrings. That dear giver to the devotees, the joy of the prostrate sages, from pain One should meditate on this ritual, the lord of the plug family, the water that has become the cow’s foot.

He was like a thunderbolt with yellow hair and adorned with gold earrings They approached the hidden one and the mighty Paravar.

He was crystal clear and had a golden glow and two arms with folded hands I worship the lotus face of Hari adorned with two earrings.

In his left hand he held a club and in his left a waterpot One should meditate on Hanuman with his right arm raised.

Then the mantra. ॐ Namo Hanuman, beautiful-faced, adorned with fame, born from the womb of Anjani For the joy of Rama and Lakshmana, for the light of the monkey army, for the lifting of the mountains, for the helping of Sugriva, for the lifting of the others, for the deep words of the young brahmacharya Hriṁ Sarvaduṣṭagrahavarnaya Svaha.

Om Namo Hanuman Ehi Ehi Ehi They are all planetary beings, witches, witches, and unevenly evil Attract and attract everyone. Crush, crush. pierce pierce. Kill the mortals, kill them. Dry and dry. Prajval Prajval.Bhootamandalapishachamandalanirasanaya. Bhootajvara-Pretajvara-Chaturthikajvara-Brahmarakshasa-Pisachachedanakriya- Cut off the fevers of Vishnu and Mahesh. Bhindhi Bhindhi. In the eye-spear, inside the head, in the eye-spear, in the bush-spear, in the gall-spear, detoxify the venom of the Brahma-rakshasa family, the strong serpent family, instantly. ॐ Hriṁ Phat Ghe Ghe Svaha.

O Hanuman, son of the wind, Vaishvanara-faced, sinful-eyed Hanuman Ajnafure Svaha.

Stand on the board at the door of your house, there is no fear of disease, no fear of the royal family, All fevers are eradicated by merely chanting it. ॐ Hram Hrim Hrum Phat Ghe Ghe Svaha.

Sri Ramachandra said: May Hanuman son of the Windgod protect me from the east and from the south May the destroyer of demons who crosses the ocean protect me in the west.

May the delight of Kesari protect me from above in the north. May the devotee of Vishnu protect me below and the holy one in the middle.

May the burner of Lanka constantly protect me from all calamities May Sugriva’s minister and the delight of the wind protect my head.

May the mighty hero constantly keep his brow between his eyebrows. May the lord of the monkeys who removes the shadow from our eyes protect us.

May the servant of Sri Rama protect me on my forehead and at the base of my ears. May the son of Anjana protect the tip of my nose and the lord of monkeys my mouth. May the dear to Rudra protect my speech and my yellow-eyed tongue.

May the god dear to Phalguna who destroys the pride of the demons protect my chin May the enemy of the demons protect my neck and may the worshiped by the gods protect my shoulders.

May the mighty Lord protect my arms and the weapon of my feet protect my hands. May the nail weapon protect my nails and may the lord of the monkeys protect my abdomen.

May the seal-bearer protect my chest and the arm-arm by my side. May the breaker of Lanka constantly protect me in the background.

May the messenger of Rama protect my navel and the son of the Windgod my waist May the greatly intelligent protect the secret and may the dear to Lord Shiva protect the limb.

May the destroyer of the palaces of Lanka protect my thighs and knees May the mighty lord of monkeys protect my thighs and my ankles May the unshakable uplifter who is like the sun protect my feet.

May the immensely rich in strength protect the limbs and the toes. May the mighty warrior who knows himself protect all his limbs and his hair.

A learned and wise person who recites this Kavacham of Hanuman He alone, the best of men, attains enjoyment and liberation.

A man should recite it three times or once for three months. That man who conquers all enemies in an instant attains prosperity.

If one recites this mantra seven times while standing in water at midnight Prevention of torments such as tuberculosis, forgetfulness, leprosy and others.

A man who stands at the foot of a peach tree in the sunshine and recites this mantra He attains unshakable prosperity and victory in battle.

Intelligence, strength, fame, patience, fearlessness, health. Remembering Hanuman will bring good firmness and eloquence.

Killing enemies at once is the refuge of all wealth I salute him who is skilled in removing sorrow and who is terrible in battle.

But if one writes it down and worships it, he will be victorious everywhere. He who holds it in his hand daily attains prosperity.

But he who, while in bondage, makes the brahmins chant. He is immediately freed from the shackles and so on.

God said: The pair of lotus feet of the sun-god, wearing a cape and a crown He was dressed in a golden robe and wore a sacred veil and deerskin. She held a book in her hands and wore a beautiful necklace and earrings I worship the son of the goddess of fortune whose arrows are moving and whose face is cheerful.

He who crossed the treasure of the wind like a little palm tree and was endowed with glory He relieves the intense sorrow of Vaidehi and is dear to the devotees of Vaikuntha He destroyed the great evils of the lord of the demons earned by Aksha and others in battle May that chief of monkeys who is the son of Samira always protect us.

He had a body like a thunderbolt with yellow eyes and a cheek covered with golden earrings The essence of the pillar of arrogance, the lord of the demons, well-subdued by the weapons. The lord of monkeys, with seven tails rising and moving, with a terrible form One should meditate on that Ramachandra who strengthens the bees and who is the essence of Sattva and who is happy.

He has a thunderbolt-shaped body and pink eyes and is adorned with golden pearl earrings The Lord of all sufferings and others, holding in the palm a full or firm pot. And He bestows upon His devotees the dearest, always well-pleased, the destroyer I offer my obeisances to the messenger of Rama who has gone to the entire earth desiring to save the three worlds.

In his left hand he carried a mountain destroyer of enemies with a chain around his neck I worship the glowing earrings of Anjaneya, whose color is like a garland, covering herself.

His cheeks were covered with lotuses and pearl earrings I meditate on the delight of the wind in the midst of the banana forest of the divine body.

Wherever there was chanting of the name of Lord Raghu there was folding of the heads Obeisance to Maruti, the destroyer of demons, whose eyes are filled with tears.

The speed of the mind is as swift as the wind, the senses are conquered, and the foremost of the intelligent. I bow my head to the son of the wind, the chief of the monkeys, the messenger of Sri Rama.

In disputes in divine times in gambling in royal houses in battle One who eats moderately and has conquered the senses should recite this mantra ten times at night.

He gains victory over humans and men in this world In the great fortress in the forest in the flood of the ocean

In fear of lions and tigers and in the dropping of sharp arrows and weapons in chains and in the control of prisons.

In anger in a pillar in a wheel of fire in a terrible field In grief and in great battle it is the prevention of the Brahma planet.

But he who always recites it daily will surely attain victory. on a brown or red cloth or on a silk or on a palm leaf.

A man should write it with trigandhi or mashya and wear it. Protected by five, seven or three irons, it is auspicious on all sides.

It is worn in the hand at the waist at the base of the arm around the neck and on the head He obtains all his desires truly as spoken by Sri Rama.

O invincible one worshiped by Rama I offer my obeisances to you I shall also set out May I always attain perfection.

Having said this, he who goes to a village, a country, a holy place or a battlefield. He will soon return home in the form of safety.

“This is what the lord of the demons says especially to Rama The younger brother of Ravana was delighted with the bridegroom He again bowed at the lotus feet of the best of the Raghus He was satisfied with his family and considered it a source of shame.

That pure intellect established in the Vedas and scriptures He is the lord of monkeys and the lord of gods and sages who brings shame Dark skin with golden pink matted hair I bow to Vyasa with my head the tilaka of the sages.

He who rises in the morning and recites this Kavacham always. May he be praised by his children for long life and health.

Thus the auspicious shield of the beautiful bow of the lord of the mountains. I have kindly explained in detail what you have asked.

Sri Ramdas said: Thus hearing this auspicious shield from the mouth of Lord Siva, Parvati. He always recited it with devotion to Hanuman with his mind always.

Thus, O disciple, as you have asked here, so have I. This Hanuman Kavacham has been presented to you.

After reading this shield of Rama first It should be read by men with devotion and never should one read it alone.

The Hanuman Kavacham is here without the Sri Rama Kavacham. Those men who read it will find their reading in vain.

Therefore, everyone should always read the two shields. and especially by the virtuous devotees of Rama the son of the Windgod.

।। This is the complete Śrī Hanuman Kavaca in the thirteenth verse of the Manohara Kanda of the Valmiki Śrīmad-Bhāgavatam, the Śrīmad-Bhāgavatam, containing the character of Śrī Śatakoti Rāma.

Ome Sri Hanuman

Share on whatsapp
Share on facebook
Share on twitter
Share on pinterest
Share on telegram
Share on email

Leave a Reply

Your email address will not be published. Required fields are marked *