ततः स तुलसीदासः सस्मार रघुनन्दनम्।
हनूमन्तं तत्पुरस्तात् तुष्टाव भक्तरक्षणम्।।
धनुर्बाण धरोवीरः सीता लक्ष्मण सयुतः।
रामचन्द्रस्सहायो मां किं करिष्यत्युयं मम।।
ॐ हनुमानञ्जनी सूनो वायुपुत्रो महाबलः।
महालाङ्गूल निक्षेपैर्निहताखिल राक्षसाः।।
श्रीराम हृदयानन्द विपत्तौशरणं तव।
लक्ष्मणे निहिते भूमौ नीत्वा द्रोणाचलं युतम्।।
यया जीवित वा नाद्य ता शक्तिं प्रकटीं कुरु।
येन लङ्केश्वरो वीरो निःशङ्कः विजितस्त्वया।।
दुर्निरीक्ष्योऽपिदेवानी तद्बलं दर्शयाधुना।।
यया लङ्कां प्रविश्य त्वं ज्ञातवान् जानकी स्वयं।
रावणांतः पुरेऽत्युग्रेतां बुद्धिं प्रकटी कुरु।।
रुद्रावतार भक्तार्ति विमोचन महाभुज।
कपिराज प्रसन्नस्त्वं शरणं तव रक्ष माम्।।
इत्यष्टकं हनुमतः यः पठेत् श्रद्धयान्वितः।
सर्वकष्ट विनिर्मुक्तो लभते वाञ्च्छितफलम्।।
ग्रहभूतार्दितेघोरे रणे राजभयेऽथवा।
त्रिवारं पठेनाच्छ्रीघ्रं नरो मुच्येत् सङ्कटात्।।
।। इति श्रीगोस्वामितुलसीदास विरचितं श्रीहनुमान्नाष्टकं सम्पूर्णम् ।।













